QR Code
संस्कृत-शास्त्र- मञ्जूषा -  Sanskrita Shastra Manjusha PDF

संस्कृत-शास्त्र- मञ्जूषा - Sanskrita Shastra Manjusha PDF Upayogi Books

by Dr. Udayashankar jha
(0 Reviews) September 21, 2023
Guru parampara

Latest Version

Update
September 21, 2023
Writer/Publiser
Dr. Udayashankar jha
Categories
Sanskrita Study
Language
Sanskrit
File Size
64.4 MB
Downloads
1,075
License
Free
Download Now (64.4 MB)

More About संस्कृत-शास्त्र- मञ्जूषा - Sanskrita Shastra Manjusha PDF Free PDF Download

भारतवर्षवाटिकायां संस्कृतशास्त्रवृक्षः प्राचीनकालादेव बहुभि विचक्षणः ग्रन्थकृन्मालाकार: स्वज्ञानजलेन संसिक्तः सन् पुष्पितः फलितश्च ।

संस्कृत-शास्त्र- मञ्जूषा -  Sanskrita Shastra Manjusha PDF

प्राक्कथनम्

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चर्तुदश ।।

भारतवर्षवाटिकायां संस्कृतशास्त्रवृक्षः प्राचीनकालादेव बहुभि विचक्षणः ग्रन्थकृन्मालाकार: स्वज्ञानजलेन संसिक्तः सन् पुष्पितः फलितश्च । अस्य संस्कृतशास्त्रवृक्षस्य प्रधानमूलं ऋग्यजुस्सामाथर्वाणः इति चत्वारो वेदाः, उपमूलानि वेदाङ्गानि शिक्षा, व्याकरणं, निरूक्तं, ज्योतिषं, छन्दः, कल्पश्चेति षडङ्गानि सन्ति । अस्य संस्कृतशास्त्रवृक्षस्य शाखा: भाषाविज्ञानं, नव-दर्शनानि, पुराणेतिहासी, धर्मशास्त्रकर्मकाण्डञ्च सन्ति । अस्य पत्राणि कोशाः टीकाग्रन्थाश्च । अस्य फलम् अभ्युदयो निःश्रेयसश्च । इत्थं धर्मार्थकाममोक्षाणां पुरुषार्थं चतुष्टयानां संसाधकं साहित्यं संस्कृतशास्त्रमेवास्ति ।

सम्प्रतिके परीक्षाप्रधानयुगे एतादृशस्य कस्यचन पुस्तकस्य समुपलब्धिः यू.जी.सी नेट/जे. आर. एफ. संस्कृतवाङ्मयस्य विभिन्न प्रतियोगिपरीक्षासु प्रविविक्षूणां कृतेऽपि महत्त्वमादधाति । अस्मिन् ग्रन्थे ग्रन्थानां ग्रन्थकाराणां तेषां विशिष्टसिद्धान्तानां च परिचयात्मकं विशिष्टविवरणात्मकं तथ्यं स्थाने-स्थाने प्रदत्तमस्ति । इयं खलु संस्कृतशास्त्रमञ्जूषा संस्कृत विश्वविद्यालयीय संस्कृतच्छात्राणाम् एवं च सामान्य विश्वविद्यालयीय संस्कृतच्छात्राणां कृतेऽपि लाभकरी एव । किम्बहुना परीक्षायाम् उत्तरलेखने छात्राः यथा सौविध्यम् अनुभवेयुः तदर्थं सर्वं चेष्टितमस्ति ।

इयं 'संस्कृतशास्त्रमञ्जूषा' द्वादशाध्यात्मिका । तत्र (1) प्रथमाध्याये - वैदिकसाहित्यस्य निरुपणम्, (2) द्वितीयाध्याये व्याकरणशास्त्रस्य विवेचनम्, (3) तृतीयाध्याये - साहित्यशास्त्रस्य विवेचनम्, (4) चतुर्थाध्यायै-ज्योतिषशास्त्रं निरूपितम्, (5) पञ्चमाध्याये - शिक्षाशास्त्रं विवेचितम्, (6) पष्ठाध्याये-निरुक्तस्य प्रतिपादनम्, (7) सप्तमाध्याये भाषाविज्ञानं प्रतिपादितम्, (8) अष्टमाध्याये-कल्पशास्त्रं विवेचितम् (9) नवमाध्याये - दर्शनशास्त्रस्य निरूपणम्, (10) दशमाध्याये - पुराणेतिहासौ प्रतिपादितौ (11) एकादशाध्याये धर्मशास्त्रकर्मकाण्डे च निरूपिते, (12) द्वादशाध्याये च सामान्यज्ञानस्य विवेचनानि सन्ति। यदि एतेन ग्रन्थेन छात्राणां मनागपि हितं भविष्यति चेत् तदा मदीयः परिश्रमः सफलो भविष्यति ।

कृतज्ञताज्ञापनम्-ग्रन्थस्यास्य सफलतायां येषां विद्वद् वर्याणां साहाय्यं मया लब्धन्तेषु कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य स्नातकोत्तर विभागीया ममाग्रजाः पूज्यचरणा दर्शन

संकायाध्यक्षा डॉ० भगीरथ मिश्रः महानुभावाः, ज्योतिष संकायाध्यक्षा डॉ० रामचन्द्र झा महानुभावाः, वेद संकायाध्यक्षा डॉ० विद्येश्वर झा महोदया, दर्शनविभागाध्यक्षा डॉ० बौआनन्द झा महोदयाः प्रामुख्येन स्मयन्ते । यतस्तेषामाशीर्वचोभिः ग्रन्थस्यास्य समाप्तिरगात् ।

तथा चास्य ग्रन्थस्य निर्माणक्रमे येषामन्येषां धीमतां सुहृदवर्गाणां साहाय्यमवाप्य विषयाणां परिवर्तनं परिवर्द्धनञ्च मया विहितं तेषु वैदिकप्रवरा डॉ० विनय कुमार मिश्र, साहित्याशिरोमणयो डॉ० विश्राम तिवारी महोदया, कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य शिक्षाशास्त्र-निदेशका: डॉ नागेन्द्र कुमार सिंह महोदया, शिक्षाशास्त्रप्राध्यापका डॉ० घनश्याम मिश्रा, डॉ० नन्दकिशोर चौधरी, डॉ० ऋद्धि नाथ झा प्रभृतयः अन्यतमाः सन्ति । अतः एतेषां समेषां कृते कार्तज्ञयं समर्पयामि ।

एतत्प्रकाशने श्री नवनीत दास गुप्तमहोदयाः चौखम्बा सुरभारती प्रकाशनप्रबन्धकाः भृशं साधुवादार्हाः सन्ति । येषां सत्प्रयासेन सौहार्देन च पुस्तकमिदं प्रकाशितम् ।

अन्ते इदमपि निवेदनं यन्मम ज्ञानात् प्रमादात् भ्रमवशात् कम्प्यूटरजन्यदोषाद् वा काश्चन त्रुटयः सञ्जातास्ताः संशोध्य सविद्वद्भिः नीरक्षीरविवेकिभिः शास्त्रवगाहनशेमुषीसम्पन्नैः सूचनीयोऽयं जनः इति भूयो भूयः मया प्रार्थ्यते ।

Rate the PDF

Add Comment & Review

User Reviews

Based on
5 Star
0
4 Star
0
3 Star
0
2 Star
0
1 Star
0
Add Comment & Review
We'll never share your email with anyone else.
More »

Other PDFs in This Category