भाषा - टीका सहिता
मङ्गलाचरणम् श्रीगणेशगुरुं नत्वा देवी श्रीभुवनेश्वरीम् ।
क्रियतेऽत्र द्विजेन्द्रेण विश्वकर्म-सुपद्धतिः ॥१॥
नारायणाब्ज-जनितस्य विधेः सुतस्य
धर्मात्मजस्य गृहवास्तुसुत वरेण्यम् ।
स्वर्गादिलोक-रचना-कुशलं तमद्य
श्रीविश्वकर्मविश्रुतं सततं स्मरामः । । २ ।।
कृतनित्यक्रियः सपत्नीको यजमानः पूजास्थाने आसनोपर्युपविश्य, पवित्रीधारणपूर्वकम्, आचम्य प्राणानायम्य विष्णुध्यानं कुर्यात् ।
स्नानादि नित्यक्रिया से निवृत्त होकर स्त्री सहित पूजनकर्ता पूजा-स्थान में शुद्धासन पर बैठकर पवित्री धारण करे। तत्पश्चात् आचमन, माजन करके प्राणायाम करे तथा विष्णु भगवान् का ध्यान करें ।
ॐ यं ब्रह्मा वरुणेन्द्र-रुद्र- मरुतः स्तुन्वन्ति दिव्यैः स्तवै-
र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो-
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥३॥